श्री कृष्णानन्दस्तुतिःसर्वशास्त्रार्थनिष्णातं निगमागमबोधकम् ।श्री कृष्णाख्यं यतिश्रेष्ठं प्रणमामि पुनः पुनः ॥1कृष्णानन्दं जगद्वन्द्यं कारुण्यामृतसागरम् ।स्वात्मानन्दनिमग्नञ्च शिवसायुज्यसाधकम् ॥2जीवितं यस्य लोकायऽऽलोकायैव च जीवनम् ।महादेव समं मान्यममान्यानपि मानदम् ॥ 3हार्दं लोकहितार्थाय मनोहारि च यद्वचः ।राकेन्दुरिव दिव्याय भव्याय नमो नमः ॥ 4काषायवस्त्रभूषाय मालारुद्राक्षधारिणे ।श्री कृष्णानन्दसंज्ञाय गुरुणां गुरवे नमः। 5यतिमण्डलमार्तण्डमानन्दान्बुधिसन्निभम्नमामि शिरसा देवं कृष्णानन्दं यतिं वरम् ॥6अज्ञानतिमिरध्वान्तं विप्रकुलसमुद्भवम् ।नमामि मनसा देवं कृष्णानन्दं यतिं वरम् ॥7नमः परमहंसाय सुधीभिर्वन्दिताय च ।श्री कृष्णानन्दसंज्ञाय गुरुणां गुरवे नमः ॥8अष्टश्लोकी स्तुतिरेषा पुण्यानन्दविवर्धिनी ।विरचिता ह्यनन्तेन गुरुदेव प्रसादतः ॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें